Stotra स्तोत्र

सरस्वती द्वादश नाम स्तोत्रम्

Saraswati सरस्वती माता
Stotra स्तोत्र

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥

सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम्।
हंसवाहसमायुक्तां विद्यादानकरीं मम॥1॥

प्रथमं भारती नाम द्वितीयं च सरस्वती।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी॥2॥

पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा।
कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी॥3॥

नवमं बुद्धिदात्री च दशमं वरदायिनी।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी॥4॥

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती॥5॥

॥ इति सरस्वतीद्वादशनामस्तोत्रं सम्पूर्णम् ॥