Stotra स्तोत्र

यम स्तोत्रम्

Yama Yama
Stotra स्तोत्र

ऋषिपुत्र नचिकेत उवाच।

त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे।
पितॄणां परमो देवश्चतुष्पाद नमोऽस्तु ते॥1॥

कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः।
प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते॥2॥

कर्म कारयिता चैव भूतभव्यभवत्प्रभो।
पावको मोहनश्चैव सङ्क्षेपो विस्तरस्तथा॥3॥

दण्डपाणे विरूपाक्ष पाशहस्त नमोऽस्तु ते।
आदित्यसदृशाकार सर्वजीवहर प्रभो॥4॥

कृष्णवर्ण दुराधर्ष तैलरूप नमोऽस्तु ते।
मार्तण्डसदृश श्रीमन्मार्तण्डसदृशद्युतिः॥5॥

हव्यकव्यवहस्त्वं हि प्रभविष्णो नमोऽस्तु ते।
पापहन्ता व्रती श्राद्धी नित्ययुक्तो महातपाः॥6॥

एकदृग्बहुदृग्भूत्वा कालमृत्यो नमोऽस्तु ते।
क्वचिद्दण्डी क्वचिन्मुण्डी क्वचित्कालो दुरासदः॥7॥

क्वचिद्बालः क्वचिद्वृद्धः क्वचिद्रौद्रो नमोऽस्तु ते।
त्वया विराजितो लोकः शासितो धर्महेतुना॥8॥

प्रत्यक्ष्यं दृश्यते देव त्वां विना न च सिध्यति।
देवानां परमो देवस्तपसां परमं तपः॥9॥

जपानां परमं जप्यं त्वत्तश्चान्यो न दृश्यते।
ऋषयो वा तथा क्रुद्धा हतबन्धुसुहृज्जनाः॥10॥

पतिव्रतास्तु या नार्यो दुःखितास्तपसि स्थिताः।
न त्वं शक्त इह स्थानात्पातनाय कदाचन॥11॥

तस्मात्त्वं सर्वदेवेषु चैको धर्मभृतां वरः।
कृतज्ञः सत्यवादी च सर्वभूतहिते रतः॥12॥

॥ इति वराहपुराणे अष्टनवत्यधिकशततमाध्यान्तर्गता नचिकेतकृता यमस्तुतिः समाप्ता ॥